Praying Image

Somaiya Prayer

ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते ।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ।।१।।

ॐ ईशावास्यमिदं सर्वं यत् किं च जगत्यां जगत् ।
तेन त्यक्तेन भुञ्जीथा मा गृधः कस्य स्विचनम् ।।२।।

मूकं करोति याचालं पडगुं लंघयते गिरिम् ।
यत्कृपा त्तमहं वन्दे परमानन्दमाधवम् ।।३।।

ॐ प्रणो देवी सरस्वती वाजेभिर्वाजिनीवती धीनामवित्र्यवतु ।
ॐ चोदयित्री सूनृतानां चेतन्ती सुमतीनाम् । यज्ञं दधे सरस्वती ।।४।।

ॐ असतो मा सद्गमय । तमसो मा ज्योतिर्गमय ।
मृत्योर्माऽमृतं गमय ।।५।।

ॐ सहनाववतु सहनौ भुनक्तु सहवीर्यं करवावहै।
तेजस्विनावधीतमस्तु, मा विद्विषावहै ।।६ ।।

सर्वेऽत्र सुखिनः सन्तु सर्वे सन्तु निरामयाः ।
सर्वे भद्राणि पश्यन्तु मा कश्विद् दुःखमाप्नुयात् ।।७।।

ॐ शांतिः । शांतिः । शांतिः ।।